वांछित मन्त्र चुनें

गी॒र्णं भुव॑नं॒ तम॒साप॑गूळ्हमा॒विः स्व॑रभवज्जा॒ते अ॒ग्नौ । तस्य॑ दे॒वाः पृ॑थि॒वी द्यौरु॒तापोऽर॑णय॒न्नोष॑धीः स॒ख्ये अ॑स्य ॥

अंग्रेज़ी लिप्यंतरण

gīrṇam bhuvanaṁ tamasāpagūḻham āviḥ svar abhavaj jāte agnau | tasya devāḥ pṛthivī dyaur utāpo raṇayann oṣadhīḥ sakhye asya ||

पद पाठ

गी॒र्णम् । भुव॑नम् । तम॑सा । अप॑ऽगूळ्हम् । आ॒विः । स्वः॑ । अ॒भ॒व॒त् । जा॒ते । अ॒ग्नौ । तस्य॑ । दे॒वाः । पृ॒थि॒वी । द्यौः । उ॒त । आपः॑ । अर॑णयन् । ओष॑धीः । स॒ख्ये । अ॒स्य॒ ॥ १०.८८.२

ऋग्वेद » मण्डल:10» सूक्त:88» मन्त्र:2 | अष्टक:8» अध्याय:4» वर्ग:10» मन्त्र:2 | मण्डल:10» अनुवाक:7» मन्त्र:2


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (तमसा-अपगूढम्) अन्धकार से दबाया हुआ, तथा (गीर्णम्) निगला हुआ (भवनम्) यह जगत् था (जाते-अग्नौ) जनक जनयिता अग्रणायक परमात्मा में (स्वः-आविः-अभवत्) सब प्रकट होता है (तस्य-अस्य) उस इस परमात्मा के (सख्ये) समान ख्यान में-शासन में (देवाः) वायु सूर्य आदि (पृथिवी-द्यौः) पृथिवीलोक द्युलोक (उत) और (आपः-ओषधीः) जल ओषधियाँ (अरणयन्) रमण करते हैं-विराजते हैं ॥२॥
भावार्थभाषाः - प्रथम यह सब जगत् अन्धकार से दबा छिपा हुआ था, पुनः परमात्मा ने इसे प्रगट किया, उसके शासन में सब वायुसूर्य द्यौलोक पृथिवीलोक जल औषधि आदि रहते हैं, अपना-अपना कार्य करते हैं ॥२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (तमसा-अपगूढं गीर्णं भुवनम्) अन्धकारेण-अपाच्छादितं तथा निगीर्णं च जगदिदं यदासीत् (जाते-अग्नौ स्वः-आविः-अभवत्) जनयितरि “जातः-जनकः” [यजु० १३।४ दयानन्दः] ‘जन धातोः कर्तरि क्तः प्रत्यय औणादिकः’ अग्रणायके परमात्मनि सर्वम् “स्वर्दृशे सर्वः” [निरु० १२।२८] प्रकटीभवति (तस्य-अस्य) तस्यास्य परमात्मनः (सख्ये) समानख्याने शासने (देवाः पृथिवी द्यौः-उत-आपः-ओषधीः-अरणयन्) वायुसूर्यप्रभृतयो देवाः पृथिवी द्यौरन्तरिक्षमोषधयो रमन्ति विराजन्ते ॥२॥